पृष्ठम्:महासिद्धान्तः.djvu/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ सतिलके महासिद्धान्ते इदानीमिष्टग्रहौदायिकानाधिन्यौदायेकान् वा मध्यखेटानाह । इष्टग्रहसावनदिननिचयाद् द्युगणोऽनुपाततः साध्यः । तस्मादनुपातेन स्युस्तदुदयकालिकाः खेटाः ॥ ३८ ॥ इँट्टैरुडुपरिवत्तैरेर्व नासत्यभौदयिकाः । दयकालिकाः । शेषं स्पष्टम् ॥ ३८ ॥ इदानी वारानयनमाह । त-हतेो दिवसव्रातो युक्तो य-विहीनवारमानेन ॥३९॥ थ-हृतः शेषो वाञ्छितवाराद्यस्तो गतो वारः । *घ-गुणो द्युगणो ग-युतश्छ-हृतस्तत्कक्षिकाविशतः ॥४०॥ । दिवसव्रातोऽहर्गणः । त-हतः षड्गुणः । य-विहीनवारमानन रूपेोनवारसँख्यया ॥ थ-हृतः सप्तहृतः । वाञ्छितवाराद्भीष्टवारात् । व्यस्तो विपरीतो विपरीतगणनयेत्यर्थः । घ-गुणश्चतुराहतः । ग-युतस्त्रियुक्तः । छ-हृतः सप्तभक्तः । तत्कक्षिकाविशतो ग्रहकक्षाक्रमेण वारः स्यात् । यथा। यदि अहिर्गणः = १७ तदा रव्यादिक्रमगणनया कुजवारो गतः । बुधवारे सूर्योदयेऽहर्गणे जुतः । अथ शुकवाहिपरीतगणनया स एव बुधवारः कथमागच्छतीत्यपेक्षितम् । एतदथेमहगणः १७ षङ्गुणः १०२ ।। शुक्रवारसंख्यया ६ रूपेोनया १ सहितः १०७ । सप्ततिष्टः शेषम् २॥ शुक्रवाराद्विपरीतगणनया बृहस्पतिगतो बुधवारो वर्तमाने जातः । अथ स एवाहर्गणः १७ चतुराहतः ६८। त्रियुतश्च जातः ७१ । सप्ततिष्टः शेषम् १ । शशिकक्षाक्रमेण चन्द्रबुधशुक्रेतिगणनया चन्द्रो गतो बुधो वर्तमानो जात इति । अत्रोपपात्तः । यदि रूपमितोऽहगैष्णो भवेत्तर्हि रव्यादिविलेोमगणनया षड्वारा गता भवन्ति । ततोऽनुपातो यदि एकेना।हर्गणेन

  • ग-गुणः इति वि. पुस्तके प्रामादिकः पाठ: ॥