पृष्ठम्:महासिद्धान्तः.djvu/246

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ro सतिलके महासिद्धान्ते भूमेभूमिपृष्ठोपरि । नेिरीक्षकस्थाने द्रष्टुईटिस्थाने। ‘निरक्षदेशे क्षितिमण्डलोपगैौधुर्वेौ' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३०-३१॥ इदानीमक्षाशानयनमाह । निजदेशपरिधिनिघ्री गज्या मध्येन परिधिना भक्ता । लम्बज्या तद्धनुषा ईना झोनाः पलांशाः स्युः ॥ ३२ ॥ तैरप्यन्तरितोऽशैस्तत्स्थानाद्व्यक्षदेशः स्यात् । निजदेशपरिधिनिघ्नी स्वदेशस्फुटभूपरिधेना गुण्या । गज्या त्रिज्या । मध्येन परिधिना पाठपाठिंतभूषरिधिना । झोना नवत्यंशाः । तत्स्थानाद् द्रष्टुर्दृष्टिस्थानात् । तैरंशैरक्षांशैर्दक्षिणेोत्तरवृत्तेऽन्तरितो व्यक्षदेशः स्वनिरक्षदेशः । शेषं स्पष्टम् । अत्रोपपत्तिः । स्फुटपरिध्यानयनवैपरीत्येन सुगमा ॥ ३२ ॥ इदानी स्वदेशनिरक्षयोरन्तरयोजनानयनमाह । अक्षांशैः संगुणितं *मध्यं परिधिं भजेद्भचक्रांशैः ॥ ३३ ॥ लब्धी योजननिचयो निरक्षनिजदेशयोर्मध्ये। | * पुरान्तरं चेदिदमुत्तरं स्यात्? इत्यादिभास्करोक्तवैपरीत्येन सर्वे स्फुटम् । प्रथमै पुरं निरक्षपुरं कल्प्यम् ॥ ३३ ॥ इदानी भूपरिध्यानयनमाह । याम्योत्तरनगरान्तरयोजनगुणितं तदक्षविश्लेषम् ॥३४॥ गतनै विभेजल्लब्धे मध्यमपरिधेर्भवेन्मानम्। तदक्षविश्लेषं तयोः पुरयोरक्षांशान्तरम्। गतनैः भचक्रांशैः ३६०॥ मध्यमपरिधेः पाठपठितभूपरिधेः । शेषं *पुरान्तरं चेदिदमुत्तरं स्यात् ? इत्यादिभास्करोक्तमतदनुरूपमेव ॥ ३४ ॥ -

  • मध्यमपरिधि इति वि. पुस्तके पाठ: ।