पृष्ठम्:महासिद्धान्तः.djvu/240

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ भुवनकोशप्रश्रोत्तरम।

  • गत्यवरोधककर्ममलयाश्र तदत्यये जीवाः ।

अकुण्ठगतयः । अकुण्ठा अनवरोधका गतिर्यषां ते । यत्र विचरन्ति असावेव भुवनाकाशाख्यगोलः। भुवनेषु चतुदर्शलोकेषु य आकाशसंज्ञेो गोलः । भुवनाकाशव्यासो भुवनाकाशविस्तृतिरेवाम्बरकक्षा खकक्षा सर्वोपरिष्ठा । ततोधी भानां कक्षा । तस्या भकक्षाया अर्वागध: क्रमेण अाकज्यारार्कभृगुज्ञचंन्द्राणां शनिगुरुभैमशुक्रचन्द्राणां कक्षाः सन्तीति । १-२ ॥ इदानी खर्गादिलोकपरिभाषा आह । निजनिजकर्मविपाकैर्जीवैरुपभुज्यते फर्ल चित्रम् । । तद्भोगस्थानाने खर्गादिकसंज्ञका लोकाः ॥ ३ ॥ जीवैः प्राणिभिः । निजनिजकर्मविपाकैः खखकर्मदशाभिश्चित्रं विचित्र फलमुपभुज्यते । तेषां सुकृतीनां यानि नानाविधानेि स्थानानि त एव स्वगादिसंज्ञका अाकाशे लोकाः सन्तीति ।। ३ ।। इदानी लोकेषु विशेषमाह । अनिलाधाराः केचित् केचिल्लोका वसुन्धराधाराः । वसुधा नान्याधारा तिष्ठति गगने स्वशक्तयैव ॥ ४ ॥

  • गल्यवरोधककर्मप्राप्तप्रलयास्तदल्यये जीवाः इति वि. पुस्तके पाठः ।।
  • ह्यवकाशे यत्र गोलोऽसौ इति वि. पुस्तके पाठः । *