पृष्ठम्:महासिद्धान्तः.djvu/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनम। ጸ፪ कते महासिद्धान्ते" इति लेखोदेवास्य नाम महासिद्धान्त इति विज्ञायते । मूलश्लोकेषु ' महासिद्धान्त” इति नाम कुत्रापि नोपलभ्यते । द्वितीयाध्याये वर्षीघादपि सूक्ष्मं ग्रहानयनेन, तृतीयाध्याये सूक्ष्मप्रकारेण ज्याखण्डानयनेन,२७ श्लोकेन भास्कराचार्यवद्ग्रहस्फुटगतिसाधनेन तत्र भास्करग्रहगणितस्पष्टाधिकार-३९ श्लोकवासनाभाष्ये * एतदानयनं हित्वाऽन्यन्महामतिमाद्भिः कल्पितम्? इति भास्करक्चनेन च, चतुर्थे त्रिप्रश्नाधिकारे अक्षक्षेत्राणां भुजकोटिकर्णसाधनेषु सांध्वनुपातप्रदर्शनेन, पञ्चमाध्याये चन्द्रग्रहणे ११श्लोकेन सकृत्प्रकारेण स्पर्शस्थित्यधोद्यानयनेन, षष्ठे सूर्यग्रहणाधिकारे ११.श्लोकेन भास्करवन्त्रतिसाधनेन, सप्तमाध्याये भास्करवञ्चन्द्रश्रृङ्गोन्नतिकरणेन, अष्टमाध्यायादिषु भास्करवचन्द्रश्ङ्गोन्नतिपरिलेखादिकरणेन, पाताधकरे भास्करवच्चन्द्रगोलायनसन्धिसाधनेन, पाट्यध्याये बहुत्र भास्करपाटीगणितादपि विशेषप्रतिपादनेन चायमार्यभटो महामतिमान् गणितेऽतिप्रवीण आसीत् । भास्कराचार्येण प्रायोऽस्यैव बहवः प्रकारा निजसिद्धान्ताशिरोमणी वाक्यान्तेरेण नििहता इति स्फुटन्। नवाडुतक्षणेन गुणनफलादिसंशोधनममुं महासिद्धान्तमपहाय कार्मेश्धिदन्यसंस्कृतगणितग्रन्थेषु संप्रत्युपलब्धेषु नोपलभ्यते । अरबदेशे अलहुशेननान्ना खीष्टा-(९८०-१०३७)ब्दमध्ये प्रथमं नवशेषवशेन गुणनफलादिशोधनप्रकारः प्रतिपादित इति । यूरपदेशे च ल्युकासड बर्गे । (Lucas de Burgo ) TFT sờfÈS: 44 fàqrt{q: Taff १६ १० शकासन्नः । ।