पृष्ठम्:महासिद्धान्तः.djvu/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। 8. इदानीं त्रिभुजे स्फुटफलार्थ करणसूत्र वृतम् । सर्वभुजैक्यं दलितं चतुःस्थितं बाहुभिः क्रमाद्रहितम् । तदद्बुधातपदं त्रिभुजे क्षेत्रे स्पष्टं फलं भवाति ॥६९॥ स्पष्टार्थम् ।। *सर्वदोर्युतिदलं चतुःस्थितम् ? इत्यादिभास्करत्रिभुजफलानयनमेतदनुरूपमेव ॥६९॥ -- इदानीं विशषमlह। ' कर्णज्ञानेन विना चतुरसे लम्बके फल यद्वा । वक्तुं वाञ्छति गणको योऽसौ मूखैः पिशाचो वा ॥७०॥ कर्णज्ञानेन कर्णयोरेकतरस्यापि ज्ञानेन । शेषं स्पष्टार्थेम्॥७०॥ इदानी चतुर्मुनेऽभीष्टकर्णकल्पने विशेषमाह । धरणीवामभुजैक्र्य कुर्योन्मुखयाम्यबाहुयोर्ग च । अनयोरल्पसमानः परमो याम्याग्रगः कर्णः ॥ ७१ ॥ दक्षिणबाहुकुयोर्ग कुर्याद्वामाननैक्यं च । । अनयोरल्पसमानः परमो * वामाग्रगः कर्णः ॥ ७२ ॥ योगवदन्तरके ये तदधिकतोऽल्पो न कर्णः स्यात् । एवं ज्ञात्वाभीष्टे चतुरस्रे कल्पयेत् कर्णम् ॥ ७३ ॥ धरणीवामभुजैक्यं भूमि-सुखवामभागस्थभुजयोर्योगम् । मुखयाम्यवाहुयोग मुख-मुखदक्षिणभागस्थभुजयोगम् । अनयोरल्पसमानः पूर्वसधितयोगयोर्मध्ये योल्पस्तेन समानो याम्याग्रगो दक्षिणभुजाग्रगामी कर्णेः परः । ततोऽधिको न स कर्णे भवितुमर्हतीति । एवं दक्षिणभुजभूमियोर्ग वामभुजमुखयोगं च गणक: कुर्यात्। अनयोयोगयोर्योऽल्पस्तेन समानः परमो वामभुजाग्रगामी कर्णो भवितुमर्हति योगवदन्तरके ये यथा भूमिवामभुजैक्यं मुखयाम्यभुनैक्यं च कृत तथैव भूमिवामभुनान्तरं मुखदक्षिणभुनान्तरं च कार्यम्। एवं ये द्वे

  • परमो याम्याग्रगः कर्णः इति वि. पुस्तके प्रामादिकः पाठः