पृष्ठम्:महासिद्धान्तः.djvu/220

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፯ቒነ¢ सतिलके महासिद्धान्ते विशिष्टं चतुर्भूजमेव यत्र वदनं मुखं शून्यं त्रिभुजं भवति । तत्र त्रिभुजे भुजयोर्योगस्य दलं विस्तृतरुर्विका भूमिश्च दलिताऽऽयामसंज्ञा ज्ञेया । तयोर्विस्तृत्यामयोर्हतिरत्र प्रस्फुटं स्थूलं क्षेत्रफलं भवति । अत्रोपपत्तिः । भुजयोयोगार्ध स्थूलो लम्बः कल्पितस्ततो ‘लम्बगुर्ण भूम्यर्ध स्पष्टं त्रिभुने फर्ल भवति' इतेि भास्करोक्तया फर्ल स्फुटमिति ॥६६॥ इदानीमन्याः परिभाषा आह । समचतुरस्रार्धसमे कोणोपगते ययोः समे सूत्रे। सूत्रविभेदादनयेोरेवं नैवं च विषमाणाम् ॥६७॥ ययोश्चतुर्मुनयोः कोणेोपगते सूत्रे समे संमुखकोणयोर्गतौ द्वौ कर्णौ तुल्यौ ते समचतुरस्राधैसमे स्तः । समचतुरस्त्र वर्गक्षेत्रम् । अर्धसममायतक्षेत्रम् । एवमनयोः कर्णयोः. सूत्रविभेदात् मानयोर्विभेदात् विषमाणां चतुर्भुजानामेवं न स्थितिः । तत्र कर्णयोः साम्यं न । यत्र कर्णयोः साम्यं न तद्विषमं चतुर्भुजं ज्ञेयामेति ॥६७॥ इदानीं चतुरखे फलाद्यानयनमाह । *तचतुरसे त्रत्यात्रिभुजद्वयफलयुतिगैणितम्। तत्त्र्यस्रकयोः कण fभूः स्यादितरे भुजाश्च चत्वारः ॥६८॥ अत्रत्येऽस्मिन् चतुर्भूने स्थितं यत्रिभुजद्वयं तत्फलयुतिस्तच्चतुरखे गणित फर्ल स्यात् । तत्त्र्यस्त्रकयोश्चतुर्भुजान्तःपातित्रिभुजयो.. श्चतुर्भुजस्य कर्णो भूः स्यात् । इतरे अन्ये चतुर्भुजस्य चत्वारे भुजाश्च भुजा भवन्ति ॥६८॥

  • तचतुरखप्रभव इति वि. पुस्तके पाठ: । १ भूमि इतर इति वि. पुस्तके पाठ: ।