पृष्ठम्:महासिद्धान्तः.djvu/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፯“ኣጻ सतिलके महासिद्धान्ते । तोलनं सुवर्णप्रमाणम्। वाञ्छिततोलनमावर्तनेन शुद्धसुवर्णप्रमाणम् । वाञ्छितवर्णेन शेोधितसुवर्णवर्णमानेन । शेषं स्पष्टार्थम् । 'सुवर्णवर्णीहतियोगराशै? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३८-३९॥ इदानीमन्यत् करणसूत्रं वृत्तद्वयम् । . 普 तुलनैक्योद्भववर्णजघाताद्वर्णममाणबधयुल्या । हीनादविदितवर्णककाञ्चनमानेन भाजिताद्वर्णः ॥४०॥ तुलनैक्योद्भववर्णजघाताद्वर्णममाणबधयुला । हीनादविदिततोलनवह्निजवर्णान्तरोद्धृतात् तुलनम् ॥४१॥ वर्णप्रमाणबधयुत्या वर्णमानानां सुवर्णप्रमाणानांच ये बधास्तेषां योगेन । शेषं स्पष्टार्थम् । लीलावत्यां भास्करोत्तमेतदनुरूपमेव ॥४१॥ इदानीमन्यत् करणसूत्रं वृत्तम् । । हयदिनताइनयुल्या विभाजयेन्मिश्रनिघ्रानि। गुणनानि हयादिनानि च भवन्ति भागा विामिश्रस्य ॥४२॥ येषु दिनेषु हयोऽश्वः कार्ये निखुत्तस्तानि हयदिनानि तेषु यद्धनं दत्तं स हयदिनभागः येषु दिनेषु ताडनार्थ शिक्षार्थे हयो नियुक्तस्तानि ताडनदिनानि तेषु यद्धनं दत्तं स ताडनभागः । गुणनानि हयताडनदिनानेि ! शेर्ष स्पष्टम्। । अत्रोपपत्तिस्त्रैराशिकेन.स्फुटा ॥४२॥ इदानीं वापीपूरणे करणसूत्र वृतम्। छेदांशविपर्यासं कृत्वा तद्योगभाजिते रूपे । वापीपूर्णकालो निखिलशिरामोक्षणे भवति ॥४३॥ छेदांशविपर्यास छेदलवानां वैपरीत्यम् । छेदस्थाने लवान्लवस्थाने छेदान् विन्यस्य । अंशैञ्जेदान् विभज्येत्यर्थ:। नििखलशरामेक्षणे सम