भग्रहयुत्यधिकारः । । १२१ दत्तायनइक्फलो यो भानां धुवको मुनिजोअगस्त्यमवो धुवकध स माध्याहिक दिनार्धसमये याभ्योत्तरवृत्तस्थो ग्रहः कल्प्यः । ततखप्रश्नाधिकारोक्तप्रकोरण तस्य नक्षत्रस्यागस्त्यस्य वा धुवशरयोर्व। शतो या स्पष्टक्रान्तिः स्वदेशे पळः पलांशाश्च । तेषां संस्कारतो नक्षत्रस्यागस्त्यस्य वा मध्यनतभागा दिनार्धे याभ्योत्तरवृत्ते नतांशाः स्युरिति । अत्रेोपपत्तिः ॥ त्रिप्रश्नाधिकारतः स्फुटा ॥१०॥ इदानी विशषमाह । ' स्पष्टापमभवचरतो दिनमानं चोक्तवत् कार्येम् । चुदलेनाक्षजमिटे काले नतनाडिकाभिः स्यात ॥११॥ नक्षत्राणां स्पष्टक्रान्तिभवाच्चरादुतवतू त्रिप्रश्नाधिकारवि• • धिना दिनमानं कार्यम्। इष्टे काले नतनाडिकाभिभेद्युदलेन च त्रैराशिकेन पूर्वोक्तश्च्या अक्षजं दृकर्म च स्यादिति ॥११॥ इदानी पुनर्विशेषमाह । लम्बांशेभ्योऽभ्यधिकाः स्फुटापमांशाः स्युरुत्तरा यस्य । दृश्यस्तत्र सदा स्याद् धिष्ण्यं खेटोऽन्यथाऽदृश्यः ॥१२॥ यस्य धिष्ण्यस्य नक्षत्रस्य वा ग्रहस्योत्तराः स्फुटक्रान्त्र्यशा लम्बांशेभ्येोऽभ्यधिकास्तत्र देशे तन्नक्षत्रं खेटेो वा सदा दृश्यो यावत् तत्स्फुटक्रान्तिरुत्तरा लम्बाधिका । अन्यथा दक्षिणा स्फुटक्रान्तियोवल्लम्बभागाधिका तावत् स-ग्रहोऽदृश्यः क्षितिजाधःस्थितत्वादिति । । अत्रोपपात्तः । 'यस्य स्फुटा क्रान्तिरुदक् च यत्र लम्बाधिका तत्र सदोदितं तत् इत्यादिभास्करप्रकारोपपत्त्या स्फुट ॥२॥ YA इदानीं रोहिणीशकटमदमाह । याम्ये बाणो रांशाधिकी वृषे प्सांशसंस्थखेटस्य । यस्य स्यात् स भिनत्तिं ब्राद्दम्यं विशरो विबाणानि ॥१३॥ ।। इति श्रीमदार्येभट्टकृते महासिद्धान्ते भग्रहयुल्यधिकारो द्वादशः॥२॥ &
पृष्ठम्:महासिद्धान्तः.djvu/177
दिखावट