पृष्ठम्:महासिद्धान्तः.djvu/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ सतिलके महासिद्धान्ते धनि कुर्याद्भणक इति शेषः । ततः स्पर्शभोक्षज्ञानार्थे' खगजत्तिथैौ खगाभ्यां ग्रहाभ्यां रविचन्द्राभ्यामित्यर्थः। जाता तिथिगणितागतदर्शान्तकालस्तस्यां तिथै क्रोमण स्थित्यर्ध हित्वा त्यक्त्वा क्षिप्त्वा सैयोज्य प्राग्वत् तात्कालिकं लम्बनं साध्यम् । सम्मीलनोन्मीलनज्ञानार्थे च मर्दार्घोनयुतात् तिथ्यन्तात् प्राग्वलम्बनं साध्यम् । ततः स्थितिसंस्कृततिथिभोगे स्थित्यर्घोनयुततिथ्यन्ते यथागतं लम्बनं स्वं धनमृणं च कार्येम् । एवमसकृत् तदा स्पर्शादिकं स्थिरं भवति । ततः सुस्थिरलम्बनसमये स्थिरस्पर्शादेकाले जाता या नातिस्तया पूर्वविधिना स्फुटो बाणः कार्येः परिलेखायेति शेषः ॥१३-१४॥ . अत्रोपपत्तिः । ‘स्पष्टेोऽत्र बाणेो नतिसंस्कृतोऽस्मात् प्राग्वत् प्रसाध्ये स्थितिमदखण्डे' इत्यादिना ‘तिथ्यन्ताद्रणितागतात स्थितिदलेनोनाधेकाल्लम्बनम् इत्यादिना च भास्करविविना स्फुटा । इदानी विशषमाह । स्पशीदिमध्यकालान्तर्र स्फुर्ट स्थितिदलाद्याख्यम्। इष्टग्रासादिमाग्वदत्र साध्यं च बुद्धिमता ॥१०॥ स्पर्शादिमध्यकालान्तरं स्पर्शमध्यकालान्तरै मोक्षमध्यकाला' न्तरं च स्फुटं स्थित्यर्धसंज्ञं स्पार्शिकं मौक्षेकं च क्रमेण भवति । अत्र सूर्यग्रहणे प्राग्वत् चन्द्रग्रहणवतू बुद्धिमता इष्टग्रासादि साध्यं स्पष्टस्थित्यर्धादित्रैराशिकनेत । अत्रेोपपत्तिः स्फुटा । विशेषार्थे' 'स्थित्यधेनाधिकात् इत्यादिसर्यसिद्धान्तश्लोकेषु सुधावर्षिणी विलोक्येति ॥१९॥ इदानी ग्रहणयोईश्याइश्यत्वे वर्ण चाह। ग्रस्तेऽप्यर्कक्रांशी विधोः पचांशो न लक्ष्यते दृष्ट्या । कृष्णोऽर्केऽल्पार्धाधिक इन्दुर्धूम्रोऽसितः पिशङ्गः स्यात्॥१६॥ इति श्रीमदार्यभट्टकृते महासिद्धान्ते सूर्यग्रहणं नाम षष्ठोऽधिकारः॥६॥