पृष्ठम्:महासिद्धान्तः.djvu/146

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e सतिलके महासिद्धान्ते । विषमपदजे बाणे सति शरस्य द्वादशवगाँश: स्थित्यां स्थित्यर्ध हीने युक्तस्तदा प्रथममोक्षाख्यः । यश्च हीनः कृतः स एव मोक्षाख्यः स्थितिखण्डो भवतीत्यर्थ: । युग्मपदोत्थो युग्मपदीयशरोत्पत्रो व्यस्तो भवति अर्थाद्यत्र युक्तः स एव मोक्षाख्यो भवतीति । अथ सिद्धान्तमाह व्यस्तशरे इतेि । व्यस्तशरे विषमपदाद्विपरीतपदस्थे समपदस्थे च शरे शोधनं च व्यस्तं विपरीतं भवति । यत्र योजनं तत्र शोधनं कार्येमिति फलितार्थः॥१२॥ इदानीभिष्टग्रासार्थ केटिमाह । अभिमतघटिकाराहितास्थितिजनितः कोटिसंज्ञको बाणः । मर्दजघटिकोत्थशरौ नियमात् केोव्याह्वयौ भवतः ॥१३॥ स्पर्शानन्तरं मोक्षात् प्राग् या इष्टंघटिकास्ताभिर्हीना स्वस्वस्थितिः कायी । शषघटिकाभिर्मध्यकालिकौ चन्द्रपातौ सञ्चाल्यौ ताभ्यां चन्द्रपाताभ्यां जानित उत्पन्नः स्वेष्टसमये यो बाणः स एंवेष्टआसानयनार्थ कोटिसंज्ञो भवति । स * अभिमतघटिकाराहेितस्थितिजनितः ? इति नियमात् सम्मीलनोन्मीलनकालयोर्मर्दीधे एव भवतः। अतो मर्दनघटिकोत्पन्नशरावेव सम्मीलनोन्मीलनकालयोः कोटिसंज्ञौ भवतः । । अत्रोपपात्तिः ।। * कोटिश्च तत्कालशरः ? “ इति भास्करोत्तेन विधिना स्फुटा ॥१३॥ इदानीर्मिष्टकाले भुजकर्णाविष्टग्रासमानं चाह । इधेनस्थितिगुणित गत्योरंशान्तरं भुजो भवति । दो:कोटिकृतियुतिपर्द कर्णस्तनोनमानयोगदलम् ॥१४॥ गत्यो रावेचन्द्रगत्योरंशान्तरमिष्टोनस्थितिगुणितम् । इष्टोनस्वस्थित्यर्धेन गुणितं भुजे भवाति । भुजकोटिवर्गयोगपदं कर्णः स्यात् तेनोनं मानैक्यखण्डमिष्टप्रासो भवतीत्यप्र सम्बन्धः ।