पृष्ठम्:महासिद्धान्तः.djvu/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्श्राधिकारः । ૭શ कथितान्यक्षक्षेत्राणि सिध्यन्ति । एकस्य भुजकेष्टिकर्णैरपरस्य भुजको टिकर्णानामेकतमस्य च ज्ञाने अपरावयवयोरनुपाततो ज्ञानं भवतीत्यर्थः।। ‘अग्रादखण्ड च तथापमज्या? इत्यादि भास्करोत्तमेतदनुरूपमेव । अत्रेोपपत्तिः । अक्षक्षेत्रानुपातेन स्फुटा ॥ ११॥ इदानी दिनार्धशङ्कुमाह गज्योन्मण्डलनृहतेश्चरजीवातं भवेद्याष्टिः ! । यष्टद्युन्मण्डळनरयुतिभेदाभ्यां गोलयोवृंदलशडूः ॥१२॥ गज्यायाखिज्यायाः । उन्मण्डलनुरुन्मण्डलशङ्गोश्व हतेघाँतात् चरजीवयाऽऽप्तं लब्धं यष्टिभैवेत् । गोलयोः क्रमात् यष्टद्युन्मण्डलनरयोयुतिभेदाभ्यां योगवियोगाभ्यां द्युदलशङ्कुर्दिनार्थे शङ्कर्भवति । अत्रोपपत्तिः । ‘त्रिभज्यकेन्मण्डलशङ्कुघाताच्चरज्ययाप्तं खलु यष्टिसंज्ञम्' इत्यादि मास्करप्रकारोपपत्या स्फुटा ॥१३॥ इदानीमन्यदाह । एवं गभचरगुणतोऽन्त्या हृतिरुर्वीगुणद्युजीवातः । तद्वलम्बापमलवसंस्कृतिजीवा दिनार्धशडुर्वा ॥१३॥ एवं गभचरगुणतस्त्रिज्याचरज्याभ्यां गोलयोर्योगवियोगाभ्यामन्त्या । उवगुणद्युजीवात: कुज्याद्युज्याम्यां गोलयोयेंगवियोगाभ्यां ह्वातेर्भवति । तद्वल्लम्बापमसंस्कृतेर्गेलयोर्लम्बकान्त्यंशयोगवियोगाम्यां जीवा वा प्रकारान्तरेण दिनार्धशङ्कर्मवात । .. अत्रोपपात्तेः । गोलसंस्थानदर्शनेनैव स्फुटा । ‘क्षितज्ययैवं द्युगुणश्ध सा हृतिश्वरज्यपैवं त्रिगुणोऽपि सान्त्यका' इत्यादि 'पलावलम्बावपमेन संस्कृती' इत्यादि च भास्करोत्तमेतदनुरूपमेव ॥१३॥ इदानीं प्रकारान्तराभ्यां दिनार्धशङ्कमाह। हृतिकफघातो भक्तो विषुवत्कर्णेन वासरार्धनरः ॥ अन्त्येोद्वृत्तवृघातश्चरगुणभक्तो दिनार्धेना यद्वा ॥१४॥