पृष्ठम्:महासिद्धान्तः.djvu/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ सतिलके महासिद्धान्ते । चरादिसंसिद्ध्यै चर-दिनमानादिसिद्ध्यर्थम् । सायकलिताः परमशरकलाः चन्द्रादीनां क्रमेण च,=रथिनाः=२७० । भैौ•=कुनताः= १०६ । बु,=ऴहाः=१३८ । गु,=सोढाः=७४ 1शु=कुडेिनाः=१३० ।। .. श.=कुडिनाः=१३० । अन्यत् सर्वे स्फुटम् । समबृंहज्जघन्यसंज्ञाः ‘स्थूलं कृतं मानयनम् इत्यादि भास्करकृतसूक्ष्मनक्षत्रानयनती विज्ञेयाः । अत्रोपपत्यर्थ सूर्यसिद्धान्तटीका सुधावर्षिणी द्रष्टव्या॥३७-३९॥ इदानीं तिथ्यादिसाधनमाह | व्यकेंन्दोच्यमचराद्रविशशिष्योगाच तिथिभयोगाः स्युः । निजनिजगतितः साध्यं गतैष्यमानेन यातैष्यम् ॥४०॥ चरदेशान्तरकाभ्यामृणसंज्ञाभ्यामिनेौदयादुपरि । स्वपुरे दिनमवृत्तिः पूर्वं स्वाभ्यां च शेषवद्विवरे ॥४१॥ इति महार्यभटसिद्धान्ते स्फुटगत्यध्यायस्तृतीयः ॥३॥ व्यकेंन्दोर्विरविचन्द्रात्। व्योमचरादग्रहात्। रविशाशयोगाच। निजनिजगतितः । तिथिसाधने रविचन्द्रगत्यन्तरतः । नक्षत्रसाधने ग्रहगतितः । येोगसाधने रविचन्द्रगतियोगतः । तिाथैनक्षत्रयोगाः स्युः । निजनिजगतिभिर्हृतेन षष्टिगुणगतभेोग्यकलामानेन यौतैष्यै घटिकादिमाने साध्यम्। ऋणसंज्ञाभ्यां देशान्तरचराभ्याम्। उत्तरगोले ऋणचरेण पूर्वदेशे ऋणदेशान्तरेण च कालेन सूर्योदयादुपरि स्वपुरे वारप्रवृतिः । स्वाभ्यां धनाख्याभ्यां चरेदेशान्तरकाभ्यां पूर्वं सूर्योदयात् प्रागेव वारप्रवृत्तिः । दक्षिणगोले धनचेरण पश्चिमदेशे धनदेशान्तरेण च कालेन सूर्योदयात् प्रांगेव स्वपुरे वारप्रवृत्तिः । तयेोश्धरदेशान्तरान्तरे घनर्णचरदेशान्तरयो२ रन्तरे यत् शेषं धनमृणं वा तद्वत् वारप्रवृत्तिर्भवति । ऋणशेष सूर्योदया- डूपरि धनशेषे प्रागेवेत्यर्थः । -