पृष्ठम्:महासिद्धान्तः.djvu/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ጻሩ , सतिलके महासिद्धान्ते अयनग्रहभगणा मध्यमाधिकारे पठितास्तभ्यो'रव्यादिसाधनवदिष्टकाले यो ग्रहः स एवायनग्रहस्तस्य भुजवशेन ज्या परमक्रान्तज्यागुणा त्रिज्याभक्ता क्रान्तज्या स्वादिति विधिनाक्रान्तिज्या साध्या । तस्याश्धार्ष केन्द्रवत् मेषादावयनग्रहे धनं तुलादावृणमयनलवा अयनांशाः स्युः । तत्संस्कृत्तखेटात् आयनं दृक्कर्मादि चरपलानि च साध्यानि । । अत्रेोपपत्तिः । अाचार्यमते परमा अयनभागा निनांशसमाः । तृथाऽयनग्रहस्य क्रान्तिसमा इष्टसमयेऽयनभागः इत्यत्र प्रत्यक्षेोपलब्धिरेव वासना । भास्कराचार्यादिभिर्यः क्रान्तिपात उच्यते त एवायनभागा इहाचार्योक्ताः । ‘तत्संजातं पातं खेटे क्षिप्त्वापमः साध्यः ।। क्रान्तवशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्याः' । इतेि भास्करप्रकारोपपत्या सूर्यसिद्धान्तप्रकारोपपत्या वा शेषवासना स्फुट ॥१३॥ इदानी रावेमन्दफलानयनमाह । झा भागा ढ्या लिसा रविमृदुपरिधिः स कोटिदोज्र्याघ्रः । चक्रांशहतो दो:फलकोटिफले स्तो भुजफलस्य धनुः ॥१४॥ छः त्रयोदश भागा ढ्या एकचत्वारॅिशतू कला रोवर्मन्दपरिधिरस्ति । स रविमन्दकेन्द्रस्य कोटिज्यया भुञ्जज्यया च गुमितः । उभयत्र चक्रांशैर्भाशै ३६० भैक्तः । भुजज्यास्थाने यत्फलं तद्दोःफलसंज्ञं कोटिज्यास्थाने च यत् तत्कोटिफल क्रमेण भवति । अथ भुजफलस्य धनुधार्प मन्दफलं भवतीत्यग्रे सम्बन्ध इति । メ अत्रोपपत्तिः । सूर्यसिद्धान्तप्रकारोपपत्त्या स्फुटा । 'स्वेनाहते परािधना भुनकेंटिमवे' इत्यादि भास्करोत्तमेतद्नुरूपमेव ॥१४॥ इदानों स्फुटरविसाधनं तत्स्फुटगत्यानयने चाह। मन्दफल केन्द्रवशात् स्वर्ण सूर्ये स्फुटो भवात । कोटिफलघ्नी भुक्तिर्गज्याभक्ता कलादिफलम् ॥१५॥