पृष्ठम्:महासिद्धान्तः.djvu/113

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः ।। " ५७ ओजपदे विषमपदे यातं गतंयद्राश्यादि तदेवं देोर्भुजो गम्यमेष्यं यत्तच्च कोटिर्भवति ! समे पदेऽस्माद्यस्तं भवति । गम्यं दोर्यतं च कोटिर्भवतीत्यर्थः । दोःकलाः केोटिकलाश्च खरणैः २२५ भक्ता लब्धसंख्यो ज्यापि- · ण्डको भवति गत इति शेषः । अस्य एष्यस्य गम्यस्य च यदन्तरं तस्य । खरौणैः भागे हृते याः शेषकलास्तासां च घातं बधं खरणैः भजेत् फलेन युता गतज्या ज्याऽभीष्टज्या भक्तीति । अत्रोपपत्तिः ।। सूर्यसिद्धान्तादिना स्फुटयः ॥१०॥ इदानीमिष्टक्रान्तिज्यानयनमाह । जीवा क्रान्तिज्याघ्री गज्याभक्ताऽपमज्या स्यात् ॥१?॥ यस्य ग्रहस्य क्रान्तज्याभीष्टा भवेत् तस्य ग्रहस्य भुजं कृत्वा जीवा साध्या सा जीवा क्रान्तिज्याप्तीपरमक्रान्तिज्यया अश्वाङ्कविश्चतुल्यया प्राक्पष्ठितया गुण्या गाज्यया त्रिज्यया भक्ता फलमपमज्याभीष्टा भंवत् । अत्रोपपत्तिः ।। सूर्यसिद्धान्तविधिना स्फुटा ॥ ११॥ इदानी ज्यातश्रधापानयनमाह । . ज्याँ मोज्झय शेषनिहता ररमा भोग्यान्तरेण संभक्ताः । फललिाढ्य: पिण्डकसंख्याररमहतश्धपः ॥१२॥ यस्या अभीष्टज्यायाश्धापमपेक्षितं तस्याः पाठपठितां ज्यां प्रेोज्झ्य हेित्वा शेषेण ररमा २२९ निहता भेग्यान्तरेण गतैष्यज्यान्तरेण भक्ता फललिसाभिः पिण्डकसंख्याया यतम जीवा शुद्धा तत्संख्याया ररमानां २२९ च हतो बघ आढ्यस्तदा चापश्धापमानं स्यादिति ॥ अत्रोपपत्तिः । 'ज्यां प्रोज्झ्यतत्त्वाधिहतावशेषम्' इत्यादिभास्करप्रकारेोपपत्या स्फुटा ॥१२॥ इदानीमयनशानाह । अयनग्रहदोःक्रान्तिज्याचापं केन्द्रवद्धनर्ण स्यात् । अयनलवास्तत्संस्कृतखेष्टादायनचरार्धपलानि ॥१३॥