पृष्ठम्:महार्थमञ्जरी.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
श्रीमन्महेश्वरानन्दविरचिता

कलाः सप्तदश अग्नेर्बाह्याभ्यन्तरकलनेन 'कला दशकं, शिखासप्तकं' च इत्याम्नायेषु प्रसिद्ध तत्सं ख्यया मूर्तिचक्रशक्तयस्तावत्य इति। ताश्च पर्या लोच्यमानाः चैतन्यं प्राधान्यम् अभिमानकर्तृ त्वम् अध्यवसायो वचनम् आदानम् गमनम् उत्सर्जनम् आनन्दत्वं ज्ञानं निश्चयः संकल्पनं श्रवणं स्पर्शनं दर्शनम् आस्वादनम् आघ्राणनं च इति प्रमातृस्फुरणप्रकारा एव भवन्ति, तेषाम् अन्तःकरणवहिष्करणादीनि उपायतया अवति ष्ठन्ते, एतास्तु मूर्तिशक्तयः संकुचितस्य प्रमातुः तत्तद्विषयसाधनभेदोपश्लेषात् पशुत्वम् उपजन यन्ति, असंकुचितस्य स्वस्वातन्त्र्यशक्तिविजृम्भसं रम्भकतया प्रवर्तमानाः परमशिवीभावलक्षणं मा ङ्गल्यम् उन्मीलयन्ति इति । अथ प्रकाशानन्द चक्रद्वितयमाह 'द्वादशषोडश चान्यनेत्रयोरिति' अन्ययोः दक्षिणवामरूपयोः नेत्रयोर्यथासंख्यं द्वा दश-षोडश शक्तय इत्यर्थः । तत्र च दक्षिणं नेत्रं प्रकाशचक्रं-प्रकाश्यते अनेन प्रमेयतत्त्वम् इति