पृष्ठम्:महार्थमञ्जरी.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
श्रीमन्महेश्वरानन्दविरचिता

 करचरणाद्युपलक्षितस्य विकल्पविक्षोभप्रप- ञ्चस्य पूर्णाहंभावभावनास्वभावया कयाचित् अविकल्पतया विमर्शनमङ्गन्यासः, वेद्यस्य विकल्पप्रसरलक्षणस्य यो विलासः-संकोचाव स्थायामपि स्वभावानतिक्रान्तो व्यवहारः तदेव अय॑म् , स्वस्य यो भावः पूज्यदेवतास्वभावतया निरूपितचमत्कारः तस्य ताहापरामर्शप्रतिष्ठाप नलक्षणपोषणप्रयोजनानि पुष्पाणि --स्वभावं पोषयन्ति इति व्युत्पत्त्या पुष्पाणि इति तात्प र्यार्थः॥ ३९ ॥

 एवं लौकिकालौकिकसाधारण्येन उपात्तेषु द्रव्येषु सर्वेन्द्रियपक्षपातविषयद्रव्यविशेषं पृथक्कृत्य संस्कारयोगाभ्यां परीक्षितुमाह

पुण्याहन्ता मुहे
 वंसविअपंकुराणा यंशोवम् ।