पृष्ठम्:महार्थमञ्जरी.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
श्रीमन्महेश्वरानन्दविरचिता

शेषानपि तथा योजयिष्यमाणः प्रथमं प्राणाया मस्य परमार्थ प्रस्थापयति

विमरितं णिअसन्तं
 विभवेकंजंमुहमि थिमिएविं।
बाहिरवुत्तांपाणं
 भङ्गो पाण संज्जमे णोऊ॥३७॥


विम्रष्टुं निजसत्त्वं
 विभवे कार्योन्मुखे स्तिमितेऽपि ।
बाह्यवृत्तान्तानां
 भङ्गः प्राणस्य संयमो ज्ञेयः
                  ॥ ३७॥


२४ निजमात्मीयं चिद्रूपं सत्वं पर्यालोचनात्मकमानन्दस्वभावस्वम् । तदुक्तम्

'..........व्याप्तिस्तत्रानन्दो विराजते ।
यत्रानन्दो भवेदावे तत्र चित्सत्वयोः स्थितिः ॥'

इति । विम्रष्टुमावेशेन आदातुं, बाह्यवृत्तान्तानां सर्वेन्द्रियग्राह्याणां विष-