पृष्ठम्:महार्थमञ्जरी.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
श्रीमन्महेश्वरानन्दविरचिता

हि स्फुरणतैव, संभेदः संबन्धः, स च एकरसः पदार्थद्वयं प्रति एकस्वभावः,तयोर्द्वयोरपि 'प्रका शते' इति प्रतीतिं प्रति वैषम्याभावात् । ततश्च चिदग्निसात्कृतयोरनयोः किं नाम बैलक्षण्यम् इति भावः । यथा माणिक्यमरकतयोः रक्तश्यामयोर न्योन्यविरुद्धयोरपि किंचित्सनिकर्षेण व स्था पितयोः परस्परप्रभापटलकर्बुरीभावात् एकरसो भवन् प्रकाशमानतासंभेदो भेदप्रतिभासं प्रमार्ष्टि -उभयोरपि स्वरूपपरित्यागात् एकतानुप्रवे शात्, यतो माणिक्यमपि अरुणश्यामलं मरकत मपि श्यामलारुणम् इति वैचित्र्यशालिनी प्रती तिरत्र उत्पद्यते ॥ ३३॥

 ननु पौनःपुन्येन प्रसाधितमपि एतदर्थतत्त्वं तडिद्विलसितवत् केवलं परिस्फुरति न पुनः हृद यंगमीभवति, हृदयंगमीभावे च कश्चित् उपायो वक्तव्यः? इत्याकांक्षायां पारमेश्वर्या सपर्यया तत् संपाद्यम् , इति तावत् देवतां पर्यालोचयति