पृष्ठम्:महार्थमञ्जरी.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
महार्थमञ्जरी

भावो दूषणं भूषणं वा इति न अत्यन्तमुपयोगः, यत्र पुनर्यौ भावाभावौ लोकव्यवहारसिद्धौ तत्र कथम् इदम् अभेदवादवैदग्ध्यम् ? इत्याशंक्याह

माणिकमरअआण
 भेदाभेदयोर्भेदपडिहासम् ।
एकरसोणोणंदोणंवि
 दुःपुमफरणसंभेला ॥ ३३॥


माणिक्यमरकतयोरिव
 भावाभावयोर्भेदप्रतिभासम् ।
एकरसोऽन्योन्यमपि
 द्वयोः प्रमार्ष्टि स्फुरणसंभेदः

 भेदाभेदप्रतिभासं स्तम्भकुम्भादेः स्फुरणसंभेद एव प्रमार्ष्टि- युक्त्या तिरस्करोति, प्रकाशमानता


पं०१४ क. पु० प्रकाशमानतातिस्फुरणतेति पाठः ।