पृष्ठम्:महार्थमञ्जरी.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
श्रीमन्महेश्वरानन्दविरचिता

विशेषः १ इति चेन्न कश्चित्,- इति वाक्यार्थोप संहारः । यदिति-यतो लोको हि विश्वव्यवहारे संविदेव भगवती विषयसत्त्वोपगमे शरणम्' इति गुरुमतमर्यादया स्फुरणं प्रकाशमेव अनुप्राणतया बीजभूततया परिगृह्य वर्तते-इति असकृत् अवो चाम । तच्च स्फुरणं विप्रतिपन्ने खपुष्पादौ संप्र तिपन्ने चम्पकादौ च सामान्यं-समपातेन प्रस रति. यदि च तस्य विप्रतिपातेन प्रवृत्तिः तत् खपुष्पमपि न स्फुरेत् । अत एव उक्तम् आचा र्याभिनवगुप्तपादैः

'सा स्फुरत्ता महासत्ता....।'

इति कारिकाया व्याख्यावसरे-सा हि खपुष्पा दिकमपि व्यामोति इति, यथा शिवदृष्टौ

'शशशृंगादिकेनापि स्याद्विभक्त्या समन्वयः'

इति, पदसंगतौ च तस्मात् तत्रापि विभक्तियो गेन कारकत्वे सति सत्तैव शिवताख्या इति॥३२॥

ननु आसतामेते व्योमकुसुमादयः यत्र मूकी-