पृष्ठम्:महार्थमञ्जरी.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
महार्थमञ्जरी

तिलमात्रेऽपि शरीरे
 प्रेक्षध्वं कीटस्यैतावती शक्तिः।
सा स्वच्छन्दश्रियो
 विश्वशरीरस्य कियती भवतु॥ २९॥

 परमेश्वरो हि विश्वशरीर इति आगमेषु आख्या- यते, यः पुनर्मषकादिः कीटविशेषः तस्य शरीरं तावत् तिलसदृशसंनिवेशनम् तावत्यपि तत्र तस्य शक्तिः कियती?- इति प्रेक्षध्वं, परिस्फुरणपरिभ्र- मणादिभेदात् अनेकरूपा अनुभूयते 'लोट् प्रत्ययो बहुवचनं च' तत्रार्थे प्रामाण्यम् उद्घाटयितुम् - तस्य विश्वशरीरस्य सा कियती भवतु एतावती एतादृशी भवतीत्यर्थः॥ २९ ॥

 ननु विश्वशरीरतया परमेश्वरस्य शक्त्युच्छ्राय- कल्पनम् इति चेत् क्रियते तर्हि विश्वसंहारे तस्य शक्तिन्यूनताप्रसंगः? -- इत्याशंक्याह