पृष्ठम्:महार्थमञ्जरी.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
श्रीमन्महेश्वरानन्दविरचिता

विमर्शशब्दस्वभाव-
मिति शिवस्य यामलोल्लासः

 अध्वानो हि षट् इति आगमेषु प्रसिद्धाः, ते च-वर्णाः पदानि मन्त्राः कला तत्त्वानि भुव नानि इति आभण्यन्ते । तत्र वर्णाः पञ्चाशत् लोकप्रसिद्धाः। पदानि आनन्त्येऽपि व्योमव्या प्यादिमन्त्रमर्यादया एकाशीतिः, । मन्त्राश्च तद्वत् आनन्त्येऽपि ब्रह्मपञ्चकम् अंशषट्कं च इति संको चदृष्टया एकादश । कला निवृत्त्यादयः पञ्च। त वानि उक्तरूपाणि षट्विंशत् । भुवनानि च का लाग्निरुद्रादीनि अनाश्रितान्तानि चतुर्विंशत्यधि कशतद्वयम्, इत्येतदखिलमपि कलापञ्चकेन क्रो डीक्रियते । तथा हि-निवृत्ती कलायां क्षकार एको वर्णः अष्टाविंशतिपदानि हृदयसद्योजातो मन्त्रौ पृथिवीतत्त्वमेकं कालाग्निरुद्रादीनि भद्रका ल्यन्तानि अष्टोत्तरशतं भुवनानि । प्रतिष्ठायां