पृष्ठम्:महार्थमञ्जरी.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
श्रीमन्महेश्वरानन्दविरचिता

विमर्शसंरम्भमयी
उज्जृम्भते शंभोर्महाशक्तिः॥२६॥

 येयं भुवनानां तत्त्वात्मनां विभ्रमो विलासः प्रसरद्रूपता सैव दार्वादिसंघटनात्मानं प्रति पुत्रि कादेः यन्त्रस्य उल्लासः, सोऽयं-संयोजनवियो जनवैदग्ध्यशालिनः परमशिवभट्टारकस्य शक्तिः स्वातन्यलक्षणा महती तत्त्वानामन्योन्ययोज्ययो जकभावेन पर्यन्ततः सामान्यप्रयोजकत्वे प्रगल्मा वृत्तिः उज्जृम्भते-पृथिव्यादिभाववर्गमिव अना श्रितशिवभट्टारकमपि क्रोडीकृत्य अभिवर्धते तत्त द्रूपतया परिस्फुरति इत्यर्थः। सा च विमर्शसंरम्भ मयी-विमर्शाख्यो यः संरम्भः स्वान्तः स्फुरन् क्रियाशक्तिस्पर्शरूपः तेन प्रकृतेत्यर्थः, या चि दानन्देच्छाज्ञानक्रियारूपशक्तिपञ्चकसामरस्यस्व भावा व्याख्यायते । ततश्च परमेश्वरपरामर्शप्रस रपरिपाटीपाटवपरमार्थमेतत् अखिलतत्त्वपरं पर म्परापरिस्फुरणप्राचुर्योज्ज्वलं विश्वविजृम्भावैचि