पृष्ठम्:महार्थमञ्जरी.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
श्रीमन्महेश्वरानन्दविरचिता

अथ कर्मेन्द्रियाणि उन्मीलयति

होन्ति कलणाई पर्वहं
 कंयपहीणाइ लोअणाहंस।
कन्दल-सेरं जहिं
 जनो जडादेविलषणो हातो॥२३॥


भवन्ति करणानि पञ्च
 कर्मप्रधानानि लोकनाथस्य ।
स्पन्दते स्वैरं यै-
 र्जनो जडाद्विलक्षणो भवन् ॥२३॥

 यो लोकनाथः सृष्ट्यादिनिर्वाहकतया स्वामी, तस्य कर्मप्रधानानि 'ज्ञानेन्द्रियाणां क्रियास्पर्शे ऽपि ज्ञानप्राचुर्यवत्' ज्ञानानुषङ्गेऽपि क्रियाश क्त्युद्भटानि पञ्चेन्द्रियाणि भवन्ति । खलु प्रसिद्धौ, यैर्निमित्तभूतैर्जनो जननमरणाद्युपहतोऽपि जीव वर्गः जडात् स्तम्भकुम्भादेः परिच्छिन्नप्रकाशात् 8