पृष्ठम्:महार्थमञ्जरी.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
महार्थमञ्जरी

 विभोः परमेष्टिनः परमस्वातन्त्र्यशालिनः स्व शक्त्यवच्छिन्नाशेषदेशकालस्वभावस्य महाप्रका शस्य तदुचितं किंचित् सर्वोत्कृष्टं स्थानमस्ति यध्हृदयं नाम । तत्र अवस्थितस्य चास्य बा ह्यानां शब्दस्पर्शादीनां विषयाणामालोकः आ समन्तात् लोकनं साकल्यं तत्स्वान्तश्चर्वणचातु र्यात् विशृंखलो भवति । बहिर्भावस्वभावनियन्त्र णातिक्रान्तो भवतीत्यर्थः । तत्र तत्र च एत देव निबन्धनं- यत् ज्ञानप्रधानानाम् इन्द्रियाणां प्रदीपप्रायाणां ये निजनिजास्तत्तदसाधारणा गोलाः श्रवणशुष्कुल्यादयः तदग्रेषु बहिर्विषयौ न्मुख्यानुगुणेषु प्रदेशेषु सार्वकालिकं लग्नं स्फुर त्तया अवस्थानम्, तानि च-श्रोत्रं त्वक् चक्षु र्जिह्वा प्राणम् इति पञ्चधा भिद्यन्ते, शब्दस्पर्श रूपरसगन्धानां ग्राह्यानां क्रमेण ग्रहणोपकरण त्वादेषां कारणत्वं लक्षणम् ॥ २२ ॥


पं. ६ ग. पु० तस्यान्तश्चरणेति पाठः।