पृष्ठम्:महार्थमञ्जरी.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
श्रीमन्महेश्वरानन्दविरचिता

करणयुक्त्या अनुगृह्णन्ति, इति कल्लोलायमा नानि । एतानि हृदयमहाम्बुराशौ महातरङ्गा इव, ज्ञानेन्द्रियाणि तुं तरङ्गानुतरङ्गन्यायम् अनु

वर्तन्त इत्यर्थः॥ २१ ॥

अथ ज्ञानेन्द्रियाणि उन्मुद्रयति

 हिअअंविअंस वि गुणो
बिसआलोऊ तिसिंखलो होइ ।
 णाणंदिअदीपेस
णिअंस-णिअंस-गोलंगणिवत्तुंगेऊ॥२२॥


हृदयस्थितस्य हि विभो
 विषयालोको विशृंखलो भवति ।
ज्ञानेन्द्रियदीपेषु
 निजनिजगोलाग्रनित्यलग्नेषु॥२२॥