पृष्ठम्:महार्थमञ्जरी.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
श्रीमन्महेश्वरानन्दविरचिता

 परमेश्वरो हि अहमेव सर्वम् इति वैश्वात्म्यप्र थानुभूतिसारचमत्कारोत्तरतया शुद्धां संकोचकल ङ्कशंकाशून्यां संविदं स्वातन्त्र्यस्वभावविद्यामयीम् अनुभवन् अनेनैव हेतुना नर्तक आत्मा' (३-९) इति शिवसूत्रस्थित्या विश्वनाटकस्य शैलूषो नट इति व्यपदिश्यते । विश्वं च पृथिव्यादिशिवान्तं तत्त्वसन्दोहात्मकं, स च शंभुः शृङ्गारकरुणादिर सास्वादनीयशब्दस्पर्शाद्यनुभवात्मकं शं सुखं प्रे क्षकाणामिन्द्रियाणां भवति अस्मात् इति कृत्वा, तस्य च विश्वनाट्याद्यभिनयोन्मुखस्य भूमिकाव लम्बनलक्षणेन अर्थेन या अवस्था सा पुरुषो भवति 'पुरुष' इति व्यपदेशौचित्यम् अनुभवति॥१९॥

अथ प्रकृति प्रकटयति

णाण-किआ-माआणं
गुणाण सभरअह पहवाणं।