पृष्ठम्:महार्थमञ्जरी.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
श्रीमन्महेश्वरानन्दविरचिता

 परमेश्वरो हि विश्वस्य कर्ता, ज्ञाता च । तत एव स्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च प्रार्थनीया भावात् । स्वव्यतिरिक्तस्य अवच्छेदकस्य कस्यचि द्भावस्य असद्भावात् नित्यः-प्राक्प्रध्वंसाभाव लङ्घी । तत एव संकोचलक्षणनियन्त्रणाशून्यः । तादृशोऽपि सन् असौ याभिः शक्तिभिः निबन्ध नीभूताभिः विपरीत इव किंचित्कर्तृत्वादिधर्म युक्त इत्यवभासते, ताः पञ्च शक्तयो भवन्ति । तदुक्तं श्रीक्रमोदये

'रागो माया कला विद्या नियतिः काल एव च।
पञ्चकृत्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः ।।

इति । कला तस्य किंचित्कर्तृत्वहेतुः, विद्या किंचिज्ज्ञातृत्वकारणं, रागो विषयेषु अभिष्वङ्गः, कालो भावाभावानां भासनाभासनक्रमः, नियतिः मम इदं न मम इदम् इत्यादिनियमहेतुः, एतत्प ञ्चकं च आगमेषु स्वरूपावरकत्वात् कञ्चुकम्


 पं० ८ क० पु. धर्मयुक्त इवाभासहेतोरिति, ग० पु० अवभास

हेतुभूता इति पाठः।