पृष्ठम्:महार्थमञ्जरी.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
श्रीमन्महेश्वरानन्दविरचिता

ततश्च षट्त्रिंशतोऽपि तत्त्वानां प्रकाशस्वभावत्वा विशेषात् पृथिवी आप इत्यादिरन्योन्यविशेषतो व्यवहारो न संभवति, व्यवह्रियते च विशेषः प्रत्यक्षमेव लोकेन, अन्यथा जलस्थलविभागादे रर्थक्रियाप्रत्यायनानुपपत्तेः, स च विशेषः स्वहृद यगतया विमर्शयुक्त्यैव उत्पद्यते, उत्पत्तिश्च ता दात्म्ये पर्यवस्यति यद्यत् अजडं तत् तदेव हि इति उक्तत्वात् । उन्मेषपदेन एतदाह, स्वात्मविमर्श द्रुमस्य पल्लवपुष्पादिप्रायम् एतद्विश्ववैचित्र्यस्फुर- णमिति ॥१२॥


१६ प्रकाशस्वभावत्वादिति । तथा चोक्तं प्रत्यभिज्ञायां

'तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं परम् ॥'

इति ! तथा

'तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्फुटम् ॥
स एव विमृशत्वेन नियतेन महेश्वरः ।
विमर्श एवं देवस्य शुद्ध ज्ञानक्रिये यतः।।

इति।

१२ पुष्पेति, समनारूपेदन्ताविमर्शरूपं पुष्पम् ।