पृष्ठम्:महार्थमञ्जरी.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
महार्थमञ्जरी

पृथिवीपरमशिवयोः
 प्रत्याहारे प्रकाशपरमार्थे ।
योऽन्योन्यविशेषः
 स एव हृदयस्य विमर्शोन्मेषः
॥ १२॥

 परमशिवात् उपरि न कर्त्रन्तरस्फुरणं, पृथ्व्या उपरि न कार्यान्तरोत्पत्तिश्च, यो मध्यवर्ती तत्त्व संघातरूपोऽर्थः तस्य प्रत्यक्षादिप्रमाणोपगृह्यमा णस्य पर्यन्ततः प्रकाश एव अनुप्राणनतया स्व भाव इति अन्वयव्यतिरेकाभ्याम् अवधार्यते, ततश्च अन्तः स्वात्मा प्रकाश एव बहिः प्रकाश्य प्रपञ्चतया स्फुरति, इत्येतावत् अभ्युपगन्तव्यम्।


९ विमर्शोन्मेष:- इदमित्येवंरूपः ।

१० प्रकाश एवेति, पृथिव्यादितत्त्वसंघातो हि प्रकाशरूप एवास्ति न तु विमर्शरूपः इत्यत उक्तं प्रकाश एवेति । अत्र श्लोकद्वयेऽयमाशयः हृदयं ताम प्रतिष्ठास्थानत्वमुच्यते, तच्च जडानां चेतनं, तस्यापि प्रकाशा त्मत्वमित्युक्तं-प्रकाश एवातुप्राणेति, तस्यापि प्रकाशस्य विमर्शशक्ति रित्युक्तं स च विशेष इति, परमे पदे विश्रान्तस्य विश्वस्य हृदयं विमर्श रूपं मन्त्रात्मकमित्युक्तं द्वितीयसूत्रश्लोके - पृथिवीपरमेति ।