पृष्ठम्:महार्थमञ्जरी.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
महार्थमञ्जरी


रशंकां निःस्वभावत्वसंभावनां व्यपोह्य तेषां तथा- भावत्वेन अवस्थापनम् । स च ऊर्ध्वः-स्वयंप्रका शतया प्रकाश्यवर्गोत्तीर्णो भवन् ज्वलति संप्र तिपत्त्या स्फुरति, तथा विमर्शाख्य इति यः कश्चित् स्वभावतया स्वीकर्तव्यः, अन्यथा दर्प णादिप्रकाशवत् अस्य जाड्यकश्यानुप्रवेशप्रसंगः। उक्तं च प्रत्यभिज्ञायाम्

'प्रकाशोऽर्थोपरक्त्तोऽपि स्फटिकादिजडोपमः।'

इति । तस्य च विमर्शस्य या दशा- स्फुरत्ताव स्था, तस्या मुखेन-औन्मुख्ययोगेन, मला नाम्-आणवकार्ममायीयानाम् , आलिः - पार म्पर्यात्मा संचयः, प्रकाशेन कर्तृभूतेन, दह्यते स्वात्मानुप्रवेशितया स्वीक्रियते, दीपोऽपि एव मेव ॥ १०॥


४ एतदाशयेनैव विरूपाक्षपञ्चाशिकायां निर्णीतमस्ति 'ज्ञातृज्ञानज्ञेयात्मकमखिलं मद्विमर्शवह्निशिखा । दग्ध्वा प्रकाशरूपं शुभ्रं असावशेषयति । इति ।