पृष्ठम्:महार्थमञ्जरी.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
महार्थमञ्जरी

तदा भोगैकात्म स्फुरति च समस्तं जगदिदं
 न जाने कुत्रायं ध्वनिरनुपतेत्संस्मृतिरिति ॥'

इति ॥८॥

 ननु स्वात्मनो विमर्शमयः कश्चित् विशेषः संसाराद्यशेषक्लेशोपशमनसामार्थ्यशालितया उ न्मीलितः, स च तस्य स्फुरणस्वभावस्य स्फुटी करणमेव अवधार्यते न च तत्र अस्फुटत्वशंकापि अवतरितुम् अर्हति-अत्यन्तस्फुटतया उपपादि तत्वात् , यतः प्रमाणप्रमेयव्यवहारविकल्पस्य अनुपयोगः प्रवितत्य व्याख्यात इत्याशंक्याह

माणिक्कपवेऊ वि
 णिऊलिऊं णियमऊहलेहाए ।


इति ।

३ पररूपान्तराभासे चे प्रमाणं यथा

'न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य आसनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥'

इत्यनेन स्मृत्यादौ प्रमातृरूपचेतनघटादिरूपजडरूपार्थावभासोऽस्त्येवेति नियमितम् । यदुक्तमनेनैव

'एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे ।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥'