पृष्ठम्:महार्थमञ्जरी.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
श्रीमन्महेश्वरानन्दविरचिता

द्वितीयात् वै भयं भवति

इति उपनिषत्प्रक्रियया भेदप्रथोपारूढं चाकित्यम् उद्वहन् मुह्यति, आत्मनः पारमैश्वर्यावस्थामनादृत्य तत्प्रमोषात् अन्तः संक्लिश्यते, यथा सर्पदंशाभावे ऽपि विषावेशशंकाशाली स्वस्य मनसि सर्पभ्रमदा यिनो रज्ज्वादेः पदार्थस्य वस्तुभूतस्वभावपर्यालो चनानपेक्षायां तात्त्विकसर्पदंशवत् मूर्छामरणादि जनितव्यथाम् उपगच्छते तद्वत् , यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभावं पर्यालोचयि तुम् उन्मुखीभवति तदा न कश्चित्संसारशब्दः सार्थतया उपलभ्यते - स्वविजृम्भात्मतयैव अस्य विमृश्यमानत्वात् । तथा च उक्तम् आचार्याभि नवगुप्तपादैः

स्वतः स्वच्छात्मा स्फुरति सततं चेतसि शिवः
पराशक्तिश्चेयं करणसरणिप्रान्तमुदिता ।


२ यदा तु पर्यालोचनं संमुखीभवति तदा स्थूलसूक्ष्मपररूपबाह्या-

भ्यन्तरान्तराः क्रियाज्ञानेच्छार्थावभासा: स्वात्मैवेति निश्चये सति भय शङ्कैव नास्तीति । तथा चोक्तम् 'आत्मज्ञो न कुतश्वन बिभेति सर्वं हि तस्य निजरूपम् ।' इति ।