पृष्ठम्:महार्थमञ्जरी.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
महार्थमञ्जरी

ओमिणं पञ्चखं
 ओमिणं हंमुहं च अणुमाणं ।
आअमदीबालोयोऊ
 तस्स पआसेद किं माहंपम्॥५॥

अवच्छिन्नं प्रत्यक्षं
 अवच्छिन्नं तन्मुखं च अनुमानम् ।
आगमदीपालोकः
 तस्य प्रकाशयति किमपि माहात्म्यम् ॥५॥

 ग्राह्यार्थसंनिकर्ष एव प्रत्यक्षस्य प्रामाण्यात् अत्यन्तम् एतत् संकुचितम् , अनुमानं च व्या- प्त्युपलम्भसापेक्षत्वात् व्याप्त्युपलम्भस्य च प्रत्य- क्षमूलत्वात् अवच्छिन्नमेव, एवं च अवच्छि- न्नानां प्रमाणानाम् अनवच्छिन्ने प्रवृत्तिरिति महतीमनौचित्यकक्ष्याम् अवतरति इति प्रागपि