पृष्ठम्:महार्थमञ्जरी.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
श्रीमन्महेश्वरानन्दविरचिता

ष्ट्यमुक्तम् । ज्ञानशक्त्येव प्रमातॄणां क्रियाशक्त्या प्ययं क्रोडीक्रियते इत्याह ‘यस्यैव नमस्कार' इति, जडजलहार्यादयोऽपि जीववर्गः तत्तत्फल कामनया तत्र तत्र नमस्कुर्वाणो दृश्यते, स सर्वो ऽपि नमस्कारो यत्संबन्धेनैव भवति । यच्छुतिः

'यस्मै नमस्तच्छिरः'

इति । सर्वस्यापि स्वात्मैव देवता इति अग्रतो भविष्यति, उक्तरूपश्च परमेश्वरः कुलस्य देहाक्षसु वनादेः विश्वविलासस्य तादात्म्यपर्यवसायितया सृष्ट्यादिभासको भवन् कस्य पदार्थस्य स्फुटो न भवति, यदि कश्चित् उच्येत स एव स्वभावतो न स्यात् इत्यर्थः, तस्मात् सर्वाहंभावस्वभावं परमेश्वरं प्रति अस्फुटत्वशंकायां न कश्चित् अव काश इति ॥४॥

 एवं सामान्यतः प्रमाणानुपयोगम् आत्मनि उपपाद्य विशेषतोऽपि उपपादयन् आगमे कंचि- दनुग्रहं दर्शयति