पृष्ठम्:महार्थमञ्जरी.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
श्रीमन्महेश्वरानन्दविरचिता

आद्यो वाक्यार्थः। द्वितीये तु योऽयं महाप्र काश उक्तलक्षणः, अनवच्छिन्नप्रमाता यद्विमर्शः पुरुषार्थतया अवस्थापयिष्यते, स वर्धतां-मा यीयमलोपलेपसंस्कारो छेदपर्यन्तमुल्लसतु, सा च वृद्धिः न कैवल्येन, किं तर्हि एवमहं लौकिकः कश्चित् प्रमाता इति प्रत्यभिज्ञानात्मा यो विमर्शः तेन यत् विच्छुरणं विशेषतोऽन्यप्रकाश वैलक्षण्येन लौकिकसंबन्धस्वभावातिक्रान्त्या ता दात्म्यपर्यवसायित्वद्योतकोऽप्रश्लेषः तद्वत्तया नि श्चलो निर्गतोपाधिकलङ्कः, .उद्योतः स्फुरत्ता यस्य, तादृशतया वर्धताम् इत्यर्थः । ननु विम्रष्टः व्यस्य आत्मस्वरूपस्य व्यपदेशनैयत्याभावात् तद्विमर्शं प्रति असद्भावपर्यवसायी कश्चित् हृदयं गमीभावः स्यात्, इत्याशंक्याह-'संज्ञाविशेषे त्यादि' यत्र परप्रमातृविषये व्यवह्रियमाणानि सर्वाण्यपि शास्त्राणि शिव-विष्णु-ब्रह्म-इत्यादिव्य पदेशमात्रव्यापृतानि, न पुनः स्वस्वभावात्यन्तमे दोपपादनप्रवीणानि भवन्ति । अत्रायमाशयः-