पृष्ठम्:महार्थमञ्जरी.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
श्रीमन्महेश्वरानन्दविरचिता

 योगिनीम् - अलौकिकैश्वर्यात्मकयोगशक्तिसं पन्नां परमेश्वरीं, कन्था नाम-भेदप्रमेदवैचित्र्य वत्तायामपि पर्यन्तत ऐक्यानुसंधानसाध्यो विश्व व्यवहारः, कपालं च-शरीराहन्ताधिवासितात्मा प्रमाता 'चित्तमयो मायाप्रमाता' इत्युच्यते, इति शिवम् ॥ ७॥

इति श्रीमन्महेश्वरानन्दविरचिता महार्थपञ्जरी समाता ॥

 महेश्वरानन्दकृतः परिमलः।'

 गोरक्षापरपर्यायः महेश्वरानन्दः प्रसिद्धः ।।

सद्विद्यानां संश्रये ग्रन्थविद्व
 व्यूहे हार्स कालवृत्त्योपयाते ।
तत्तत्सद्धमोंदिधीर्षैकतान
 सत्प्रेक्षौज शालिना कर्मवृत्त्यै ॥१॥


श्रीमत्कश्मीराधिराजेन मुख्यै
 र्धर्मोद्युक्तैर्मचिभिः स्वविवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ-
 ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥२॥