पृष्ठम्:महार्थमञ्जरी.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
श्रीमन्महेश्वरानन्दविरचिता

श्चिन्त्यमव्याहतम् , तवोपदेश्यस्य येन प्रकारेण स्थितिर्वृत्तिर्भवति तेनैव प्रकारेण विकल्पलक्षणां चिन्तामतिक्रामन् अव्याकुलं वर्तस्व - इति योऽ यमुपायलक्षणोऽर्थः स खलु आणवादिक्रमोल्लङ्घ नेन प्रतिष्ठितः शाम्भवत्वात्मना पार्यन्तिक इत्या ख्यायते, तत्रापि कश्चिद्विवेकोऽस्ति-- पर्यालोच नया कयाचिद्भाव्यम्, यदुत एवं सति उपपादि तया भङ्गया,योऽयमुपदेशो-रहस्यार्थप्रख्यापन, स खलु आस्वादे विध्यर्थस्य स्वान्यविभागरूप भेदजीवितत्वात् किं कर्मकः किं कर्तृको वा स्या दित्युद्भावयितुं नार्हति-तं प्रति कर्मकर्तृभूतयोः उपदेश्योपदेशकयोर्वस्तुवृत्त्या भावात् ॥ ६३ ॥

 इत्थमत्याश्चर्यनश्चिन्त्यशालिनां योगिनां स्व भावमनुसंदधानस्तत्रकृत् स्वात्मनोऽपि तेभ्यो लक्षण्याभावात् तादृक्स्वभावतापरामर्शमांसला ह्लादातिशयमनुभवन् एतदाशयावेशवैवश्योद्रिक्त स्वसंविदाटोपगौरवोच्चलचित्तवृत्तिचमत्कारोत्तर- माह