पृष्ठम्:महार्थमञ्जरी.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
महार्थमञ्जरी

त्वोपपादकादेश्चावकाश इत्यर्थः । अस्तु एवं, तथापि अवघातस्वेदादिवत् अन्यथासिद्धसांनि ध्येन लोकव्यवहारेण कथम् आत्मविमर्शोत्प त्तिरित्याशंक्याह 'विमर्शविच्छुरित' इति, न खलु स्वसत्तामात्रेण विश्वस्य आत्मविमर्शं प्रति उपायत्वमनेन तथा विमृश्यमानावस्थायामेव, तत्र विश्वस्वरूपस्यैव तन्मिथ्यात्वादेः तद्विपर्यये च विम्रष्टव्यतोद्भावनाय निश्चलोद्योत इत्यस्य विमर्शविच्छुरित इत्यनेन सह ऐकपद्यम् । ननु यदि विश्वव्यवहारस्य किंचित् नैयत्यं तदुपपद्ये तापि नाम तस्य उपायत्वं, तच्च न संभवति अद्यापि सिद्धान्तिभिर्द्रव्यगुणादयः षट् इत्यादि पृथक् पृथक् विकल्प्यमानत्वात् , इत्याशंक्याह 'संज्ञाविशेषेत्यादि' यत्र हि विश्वविलासात्मनि अर्थे कणभक्षादिशास्त्राणि तत्परिभाषानुगुण्येन संज्ञा लक्षणा ये व्यपदेशविशेषास्तन्मात्रोपक्षीणव्यापा राणि, न पुनः प्रत्यक्षादिप्रमाणोपगृह्यमाणपृथि- व्यादिपरम्परापरिस्पन्दापलापप्रगल्भानि इति