पृष्ठम्:महार्थमञ्जरी.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
श्रीमन्महेश्वरानन्दविरचिता

याभिर्गृह्णाति योगी
 करणप्रणालीभिर्विषयसौख्यानि ।
निजहृदयोहमनशीलाभि
 स्ताभिः स्फुरणमयं करोति त्रैलो
क्यम् ॥ ६२॥

 प्रकृत्या परमप्रभातृपदाधिरूढोऽपि स्वेच्छा मात्रोपाधिना परिमितप्रमाताभावमवतरन् अत एव प्रकाशानन्दसामरस्यामृतमहाहदायमानो योगी याभिरन्तर्बहिरिन्द्रियशक्तिलक्षणाभिः श ब्दस्पर्शादिविषयवपूंषि सौख्यानि गृह्णाति-आ त्मसात्करोति, ताभिरेव व्याख्यातरूपमात्महृदय मनवरतमुद्वहन्तीभिः प्रमाप्रमाणप्रमेयपरमार्थ मेतत्रैलोक्यं स्वहृदयलक्षणस्फुरणात्मकं विधत्ते ।। ६२॥

 नन्विदं योगिनां नैश्चिन्त्यमाणवाद्युपायसव्य- 18