पृष्ठम्:महार्थमञ्जरी.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
श्रीमन्महेश्वरानन्दविरचिता

चित्रामिव मणिमालां
 विमर्शसूत्रैकगुम्फितामुद्दहति

 यान्येतानि जागरप्रमृतीनि पर्वाणि - अव स्था विशेषाः, एषां पर्वाणां या परिपाटिस्तां योगी मौक्तिकमाणिक्याउनेकरत्नशालिनी हास्य ष्टिमिव विमर्शाख्येन सर्वानुवेशप्रगल्भेन एकेन तन्तुना संकलितां कुर्वन् उद्वहति -लौकिका स्थानोल्लविना केनचिदुत्कर्षेण स्वात्मन्यवस्था पयति । तत्र च लौकिकालौकिकसाधारणमव स्थात्रयमतिक्रम्य परमग्रमातरूपतुर्यातीतस्वभा वतया अवधार्यमाणं तुर्यमेवात्र विमर्शः ॥६॥

 ननु व्यावर्णितमेतद्देशकालादिसकलवैधुर्योद्धुरं शुद्धसंविकलाकैवल्यभावं योगिनः स्वाच्छन्द्यं, तच्च न संभवति-यस्य कस्यचिद्विकल्पोपले- षस्य नित्यमवर्जनीयत्वात् ? इत्याशंक्याह ।।