पृष्ठम्:महार्थमञ्जरी.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
महामारी

 लोके हि दर्पणादौ स्वच्छे वस्तुनि स्वाभि मुख्येनोल्लसन् आननादिः पदार्थः प्रतिफलन युक्त्या परिस्फुरति-इति प्रसिद्धोऽयं अर्थः, तत्र दर्पणवदाननादीनां वास्तवं वपुरत्रैवानन्तर मुपपादयिष्यते । स्थूलया दृष्टया मुखतयाभिमतो भावः प्रतिबिम्बनक्रियामनुभवति, आदर्शात्मकश्च तदाधारतया तत्प्रयोजको भवति- इत्यस्तु ना मैतत्, यः पुनरयमादर्शः स्वच्छतावशादानना दिप्रतिबिम्बनस्थलतयानुभूयते स एव यत्रात्यन्त स्वच्छे स्वात्मनि तादृग्रूपतया प्रतिबिम्बति सोऽ पि ज्ञातव्यः- यन्मयोऽयमशेषः प्रतिबिम्बनप्रग ल्भोन्मेषः ज्ञातव्यः - ज्ञानार्हः, शक्यज्ञानो वा, अवश्यं ज्ञातव्य इति वा ॥ ५८ ॥


मुखादिपदार्थसार्थप्रतिबिम्बं धारयतु, पुनः पक्षान्तरे स तादृक् स्वच्छो दर्पणो यस्मिन् प्रतिबिम्बति परमाकाशे स एव ज्ञातव्यः, अथ वा अधर- भूमिकाग्रहेण चिदाकाशे सोऽपि ज्ञातव्य एव, यतः 'न शिवः शक्तिरहितो न शक्तिः शिववर्जिता। यासलं प्रसरं सर्व ........................ 11 इति न्यायात् ।