पृष्ठम्:महार्थमञ्जरी.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमन्महेश्वरानन्दविरचिता

 अत्र योऽयं महाप्रकाशस्तत्तत्प्रमातृप्रकाशवि शेषाधीनतया प्रकाशमानतायाः स्वभावमात्राद्वा विशेषात् स्वरूपनिष्कर्षे क्रियमाणे, तत्

'तदुपायतया ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ।।
न हि ज्ञानादृते भावाः केनचिद्विषयीकृताः।
ज्ञानं तदात्मतायातमेतस्मादवसीयते ।।'

इति श्रीदेविकाक्रमस्थित्या प्रकाशैकस्वभावः षट्त्रिं शत्तत्त्वसपिण्डात्मा प्रत्येकतत्त्वपर्यालोचनेऽपि अ नन्तप्रकारो विश्वविलासः, स वर्धताम् उपर्युपरि स्फुरत्ताम् अनुभवतु । अयमेव महान् उपायो विमर्शस्य इति यावत् । ननु शून्यमात्रस्वभा वेन मिथ्यात्वमात्रानुप्राणितव्यवहारेण वा विश्व वैचित्र्येण उपायभूतेन अपरमार्थभूतेन परमा र्थभूतस्वात्मरूपविमर्शलाभ इत्येतदनालोचितोत्क र्षकाष्ठातत्प्राप्तिरिति माध्यमिकानिर्वचनीयत्वादि वादमर्यादामाशङ्क्याह 'निश्चलोद्योत' इति, स्फुट प्रकाशात्मनि प्रपञ्चोद्योते न कस्यचित् मिथ्या-