यितुमपत्याङ्गनादिप्रमृतिरखिलो वेद्यप्रपञ्चः प्री णानो भवति - इति श्रुत्यर्थो व्याख्यातः, प्रियार्थ इति प्रीत्यर्थस्य प्रियशब्देनोपन्यासादात्मनः स्वभावभूतः यः प्रीतिरूप एव भावः स कर्तृकर णादिवैचित्र्येण बहुप्रकारोऽनुभूयते, न पुनरेतद्वय तिरिक्तः कश्चित्प्रीणनादिः पदार्थः- इत्यासूच्यते। मुक्त अमुक्तो वेति-न खलु नैयायिकादिमर्या दया मुक्त्यवस्थायां पाषाणप्रायत्वादात्मनो निरा नन्दत्वम् यतो मुक्त्यभावेऽपि तस्य एवंस्वभाव
'वास्तवेऽपि चिदेकत्वे न स्यादामासभिन्नयोः ।
चिकीर्षालक्षणैकलपरामर्श विना किया ।
इत्थं तथा धटपटाद्याभासजगदात्मनः।
तिष्ठासोरेवमिच्छेत्र हेतुता कर्तृता क्रिया ।।
इति ।
'पुष्पाणि स्वभावपरिपोषका भाषाः ॥
इति च पूर्वमुक्तम् । तथा च
'यल्लोहितं तदग्निर्यद्वीय सूर्येन्दुलक्षणम् ।
अ इति ब्रह्म परमं तसंघहोदयात्मकम् ॥
तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् ।
भोग्यरवेनानरूपं च शब्दस्पर्शरसात्मकम् ॥'
इत्यादिना निर्णीतम् ।