पृष्ठम्:महार्थमञ्जरी.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
महार्थमञ्जरी

दाम्रष्टुं प्रगल्भन्ते, चैतन्यस्य च स्वविश्रान्तिरेव 'आनन्द' इत्युक्तम्, यदा पुनरस्य स्वविश्रान्ति परामर्श प्रत्यौदासीन्यं तदानीं देहच्छेदादिदुःखा नुभूतिव्यपदेशः, वास्तव्या तु दृष्टया तादृशपरा मर्शशून्यत्वेऽपि न कदाचिदस्य स्वविश्रान्त्यभावः इति सर्वदा सुखानुभूतिव्यतिरेकेण न किंचि दुःखम् - इत्यालोच्यते । ननु आनन्दात्मकत्वे कथं क्रोधादौ पुंसां शस्त्रप्रहारादिश्लेषानुभूत्यौ न्मुख्यम् ? इति चेत्, न - क्षेत्रकलत्रायनुरागावे शवैवश्यादेवमुद्योग इति कश्चिदानन्दाध्यवसाय एवं तेषामेताहरव्यवहारोपक्रमे निबन्धनम् इति दुःखानामपि सौख्यकक्ष्यानुप्रवेशासिद्धमस्यान न्दस्वभावत्वम् । यदुक्तं श्रीमत्स्तोत्रावल्याम् ।

'दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शांकरः।।"

इति । इत्थं च आत्मनः स्वस्य कामः इच्छौत्सु

क्यस्पृहादिपर्यायो भावत्वेन वर्तते तमेवोन्मील-


३८ इच्छेत्यादि, यदुक्तम्