पृष्ठम्:महार्थमञ्जरी.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
महार्थमञ्जरी

भिलषणीयप्रकर्षरूपसौरभ्यरसस्पृहत्वात्, अनेन च विश्वस्य भोगमोक्षदतया अवस्थापनात् वक्ष्यमा णस्य विमर्शोपायस्य औचित्यम् उन्मील्यते॥१॥

 अथ तन्त्रप्रतिपाद्यमर्थं तत्परिज्ञानस्य प्रयोज नतया अन्वेष्यतां च अभिदधानः तन्त्रकृत् तत्रैव आवृत्त्या तत्प्रयोजनम् आत्मविमर्शस्वरूपम् अ भ्युपेयतया उपपादयति

वट्टण्डु महापआसो
 विमरिसवित्सुरिबंह्म णिंचलंजोऊ।
संणाविद्योस णिंअमेल
 पअत्ताइ जंथ संथाइ ॥२॥


वर्धतां महाप्रकाशो
 विमर्शविस्फुरितनिश्चलोद्योतः ।
संज्ञाविशेषनिर्णयमात्र
 प्रत्तानि यत्र शास्त्राणि ॥२॥