पृष्ठम्:महार्थमञ्जरी.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
श्रीमन्महेश्वरानन्दविरचिता

आत्मनः प्रियाय सर्वं प्रियं भवति

इति श्रुतिः, सा परमेश्वरे परामृश्यतया प्रवृत्ता, नन्विति पराभ्युपगमार्थः

सुहृदयस्फुरणलक्षणस्य आत्मनः
पूर्णत्वादहमित्येतज्ज्ञानमानन्द उच्यते'

इति स्थित्या पूर्णाहन्तानुसंधानात्मकस्वविश्रा न्तिसतत्त्वो य आनन्द स एव असाधारणं रूपं, तादृस्वभावले च तस्य मुक्तत्वममुक्तत्वमित्यव स्थाद्वयमपि न किंचित् भयम्, यदि च तस्य आत्मनो न आनन्दः स्यात्स्वभावः तदपत्यक लत्रादयः शमदमादयो भावाः कस्य प्रीणानाः स्युः, नद्यपत्यादयः सहस्रमपि चैतन्यशून्यं किंचि


त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदश्यते ।
स बिन्दुर्थस्य तं वन्दे देवमानन्दसागरम् ॥

, इति ।


 आनन्दो ब्रह्मणो रूपम्

इति च । तथा च

 चैतन्यमात्मनो रूपं निलगानन्दसुन्दरम्'

इत्यादिना बहुशोऽनुशिष्टमस्ति ।