पृष्ठम्:महार्थमञ्जरी.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
श्रीमन्महेश्वरानन्दविरचिता

'हृदयं हि नाम विषप्रतिष्ठास्थानमित्युच्यते'

तत्र प्रकर्षण रूढः -- चर्व्यमाणतामापन्नो, विम र्शः- बाह्याभ्यन्तरपथसहस्रसर्वस्वनिर्वाहकतया तत्तदभिलषितपदार्थदानपाण्डित्यशालिकल्पशा खी इत्यध्यवसीयमानो विमर्शलक्षणः स्वात्मपरा मर्शात्मा चमत्कारः, स्वस्वरूपवेदिनां पुंसां, पु रुप्यति भोगश्रियं-पुष्पस्थानीयां भोगलक्ष्मी मुद्भावयति इति, भोगोऽप्यभिमतोऽङ्गनालिङ्ग नादिबहिर्भूत्यनुभवः, तस्येयमेव श्रीः, यद्विधिनि षेधोल्लङ्घिना संविदद्वैतास्वादसौभाग्येन ग्राह्यग्न हणकौतूहलोपलम्भ एवं स्वात्मविजृम्भाभावकेध साधनप्रगल्भः संपत्स्वभावत्वेन अनुभूयते । कि च विमाख्यः कल्पशाखी निष्कलमहन्तेदन्ता विभागविच्छेदावच्छेदलक्षणकलाकलङ्कशून्यं य त्सुखं - स्वविश्रान्तिस्वभावः स्वहृदयाह्लादः, स एवोत्सवः


पं० ११ क. पु० विजृम्भाभावे वेधेति पाठः ।