पृष्ठम्:महार्थमञ्जरी.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
श्रीमन्महेश्वरानन्दविरचिता

 वैखरी नाम क्रिया
ज्ञानमयी भवति मध्यमा वाक् ।
 इच्छा पुनः पश्यन्ती
सूक्ष्मा समरसा वृत्तिः॥४९॥

 वाक्तत्त्वं तावत्क्रमात् - सूक्ष्मा पश्यन्ती मध्यमा वैखरी, इति चतुर्धा भिद्यते । तत्र वैखरीति ता ल्वादिकरणव्यापारे प्रसिद्धा, या- क्रियाशक्ति रित्यध्यवसीयते, मध्यमा च बुद्धिवृत्तिमात्रं प्रव र्त्यमानत्वात् ज्ञानशक्तिः, पश्यन्ती पुनरिच्छा शक्तिः-बहिःप्रसरणाभ्युपगमरूपत्वात्तस्याः, यतः पश्यन्तीति व्युत्पत्तिः, सूक्ष्मा तु शिखण्ड्यण्डरस न्यायात् उक्तवाक्रयशवली[कृत स्वभावा प्रत्य ग्दृशः परमेश्वरस्योद्योगलक्षणा वृत्तिराख्यायते, परा वाक् पुनः तस्यैव परमेश्वरस्य स्वरूपमनुप्र विशन्ती परिस्फुरति ।। ४९ ॥