पृष्ठम्:महार्थमञ्जरी.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
महार्थमारी

वभङ्गप्रसंगरूपचाकित्यव्यपोहनलक्षणं रक्षणं त न्मयी, हेतुद्वयेन वेद्यविक्षोभसर्वग्रासविशृङ्खलो ल्लासायानुभूतिः स्वहृदयैकसंवेद्या विमर्शशक्तिः सैव मन्त्रः। यथा च श्रीराजभट्टारके

वर्णात्मको न मन्त्रो
 दशभुजदेहो न पञ्चवदनोऽपि ।
संकल्पपूर्वकोटौ
 नादोल्लासो भवेन्मत्रः
इति ॥४८॥

 ननु मंत्राणामेव अलौकिकानुभूत्यात्मकत्वं प्रसाधनम् - एतत्सर्वे निर्विवादं, श्रोत्रेन्द्रियग्र ह्यस्य शब्दराशेः कीदृशम् ? इत्याशंक्य, वाक्तत्त्व स्यैव तत्त्वमुन्मुद्रयितुमाह

वेहरिआ णाम किआ
 णाणमई होल मलमा वाआ।
इच्छा उण पंखन्ती
 सक्षम समरशा वत्ती॥४९॥